(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.253. अध्यायः 253
Mahabharata - Adi Parva - Chapter Topics
इन्द्राभिवृष्टस्य जलस्यार्जुनेन निवारणम्॥ 1 ॥
पुत्रं निगीर्याकाशमुत्पतन्त्याः तक्षकभार्यायाः अर्जुनेन शिरश्छेदः॥ 2 ॥
इन्द्रेण स्वकृतवायुवर्षमोहितादर्जुनात्तक्षकपुत्रस्याश्वसेनस्य मोचनम्॥ 3 ॥
पावकान्मुमुक्षूणां नागादीनां मारणम्॥ 4 ॥
इन्द्रस्य कृष्णार्जुनाभ्यां युद्धम्॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-253-0x(1330)(10990)
तस्याथ वर्षतो वारि पाण्डवः प्रत्यवारयत्।
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन्॥ 1-253-1(10991)
खाण्डवं च वनं सर्वं पाण्डवो बहुभिः शरैः।
प्राच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः॥ 1-253-2(10992)
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः।
संछाद्यमाने खे बाणैरस्यता सव्यसाचिना॥ 1-253-3(10993)
तक्षकस्तु न तत्रासीन्नागराजो महाबलः।
दह्यमाने वने तस्मिन्कुरुक्षेत्रं गतो हि सः॥ 1-253-4(10994)
अश्वसेनोऽभवत्तत्र तक्षकस्य सुतो बली।
स यत्नमकरोत्तीव्रं मोक्षार्थं जातवेदसः॥ 1-253-5(10995)
न शशाक स निर्गन्तुं निरुद्धोऽर्जुनपत्रिभिः।
मोक्षयामास तं माता निगीर्य भुजगात्मजा॥ 1-253-6(10996)
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते।
निगीर्य सोर्ध्वमक्रामत्सुतं नागी मुमुक्षया॥ 1-253-7(10997)
तस्याः शरेण तीक्ष्णेन पृथुधारेण पाण्डवः।
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यच्छचीपतिः॥ 1-253-8(10998)
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम्।
मोहयामास तत्कालमश्वसेनस्त्वमुच्यत॥ 1-253-9(10999)
तां च मायां तदा दृष्टा घोरां नागेन वञ्चितः।
द्विधा त्रिधा च खगतान्प्राणिनः पाण्डवोच्छिनत्॥ 1-253-10(11000)
शशाप तं च संक्रुद्धो बीभत्सुर्जिह्मगामिनम्।
पावको वासुदेवश्चाप्यप्रतिष्ठो भविष्यसि॥ 1-253-11(11001)
ततो जिष्णुः सहस्राक्षं खं वितत्याशुगैः शरैः।
योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन्॥ 1-253-12(11002)
देवराजोऽपि तं दृष्ट्वा संरब्धं समरेऽर्जुनम्।
स्वमस्त्रमसृजत्तीव्रं छादयित्वाऽखिलं नभः॥ 1-253-13(11003)
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान्।
वियत्स्थो जनयन्मेघाञ्जलधारासमाकुलान्॥ 1-253-14(11004)
ततोऽशनिमुचो घोरांस्तडित्स्तनितनिःस्वनान्।
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम्॥ 1-253-15(11005)
वायव्यमभिमन्त्र्याथ प्रतिपत्तिविशारदः।
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम्॥ 1-253-16(11006)
जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः।
क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः॥ 1-253-17(11007)
सुखशीतानिलवहं प्रकृतिस्थार्कमण्डलम्।
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः॥ 1-253-18(11008)
सिच्यमानो वसौघैस्तैः प्राणिनां देहनिःसृतैः।
प्रजज्वालाथ सोऽर्चिष्मान्स्वनादैः पूरयञ्जगत्॥ 1-253-19(11009)
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः।
खमुत्पेतुर्महाराज सुपर्णाद्याः पतत्त्रिणः॥ 1-253-20(11010)
गरुत्मान्वज्रसदृशैः पक्षतुण्डनखैस्तथा।
प्रहर्तुकामो न्यपतदाकाशात्कृष्णपाण्डवौ॥ 1-253-21(11011)
तथैवोरगसङ्घाताः पाण्डवस्य समीपतः।
उत्सृजन्तो विषं घोरं निपेतुर्ज्वलिताननाः॥ 1-253-22(11012)
तांश्चकर्त शरैः पार्थः सरोषाग्निसमुक्षितैः।
विविशुश्चापि तं दीप्तं देहाभावाय पावकम्॥ 1-253-23(11013)
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः।
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिनः॥ 1-253-24(11014)
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः।
कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः॥ 1-253-25(11015)
तेषामतिव्याहरतां शस्त्रवर्षं प्रमुञ्चताम्।
प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः॥ 1-253-26(11016)
कृष्णश्च सुमहातेजाश्चक्रेणारिविनाशनः।
दैत्यदानवसङ्घानां चकार कदनं महत्॥ 1-253-27(11017)
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तथा।
वेलामिव समासाद्य व्यतिष्ठन्नमितौजसः॥ 1-253-28(11018)
ततः शक्रोऽतिसक्रुद्धस्त्रिदशानां महेश्वरः।
पाण्डुरं गजमास्थाय तावुभौ समुपाद्रवत्॥ 1-253-29(11019)
वेगेनाशनिमादाय वज्रमस्त्रं च सोऽसृजत्।
हतावेताविति प्राह सुरानसुरसूदनः॥ 1-253-30(11020)
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम्।
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तथा॥ 1-253-31(11021)
कालदण्डं यमो राजन् गदां चैव धनेश्वरः।
पाशांश्च तत्र वरुणो विचित्रां च तथाऽशनिम्॥ 1-253-32(11022)
स्कन्दः शक्तिं समादाय तस्थौ मेरुरिवाचलः।
ओषधीर्दीप्यमानाश्च जगृहातेऽस्विनावपि॥ 1-253-33(11023)
जगृहे च धनुर्धाता मुसलं तु जयस्तथा।
पर्वतं चापि जग्राह क्रूद्धस्त्वष्टा महाबलः॥ 1-253-34(11024)
अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम्।
प्रगृह्य परिघं घोरं विचचारार्यमा अपि॥ 1-253-35(11025)
मित्रश्च क्षुरपर्यन्तं चक्रमादाय तस्थिवान्।
पूषा भगश्च संक्रुद्धः सविता च विशांपते॥ 1-253-36(11026)
आत्तकार्मुकनिस्त्रिंशाः कृष्णापार्थौ प्रदुद्रुवुः।
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः॥ 1-253-37(11027)
विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा।
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ॥ 1-253-38(11028)
कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः।
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे॥ 1-253-39(11029)
युगान्तसमरूपाणि भूतसंमोहनानि च।
तथा दृष्ट्वा सुसंरब्धं शक्रं देवैः सहाच्युतौ॥ 1-253-40(11030)
अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ।
आगच्छतस्ततो देवानुभौ युद्धविशारदौ॥ 1-253-41(11031)
व्यताडयेतां संक्रुद्धौ शरैर्वज्रोपमैस्तदा।
असकृद्भग्नसंकल्पाः सुराश्च बहुशः कृताः॥ 1-253-42(11032)
भयाद्रणं परित्यज्य शख्रमेवाभिशिश्रियुः।
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च॥ 1-253-43(11033)
आश्चर्यमगमंस्तत्र मुनयो नभसि स्थिताः।
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे॥ 1-253-44(11034)
बभूव परमप्रीतो भूयश्चैतावयोधयत्।
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः॥ 1-253-45(11035)
भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः।
तच्छैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षितः॥ 1-253-46(11036)
विफलं क्रियमाणं तत्समवेक्ष्य शतक्रतुः।
भूयः संवर्धयामास तद्वर्षं पाकशासनः॥ 1-253-47(11037)
सोश्मवर्षं महावेगैरिषुभिः पाकशासनिः।
विलयं गमयामास हर्षयन्पितरं तथा॥ 1-253-48(11038)
तत उत्पाट्य पाणिभ्यां मन्दराच्छिखरं महत्।
सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम्॥ 1-253-49(11039)
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः।
शरैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा॥ 1-253-50(11040)
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ।
सार्कचन्द्रग्रहस्येव नभसः परिशीर्यतः॥ 1-253-51(11041)
तेनाभिपतता दावं शैलेन महता भृशम्।
शृङ्गेण निहतास्तत्र प्राणिनः खाण्डवालयाः॥ ॥ 1-253-52(11042)

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि त्रिपञ्चाशदधिकद्विशततमोऽध्यायः॥ 253 ॥ ॥ समाप्तं च खाण्डवदाहपर्व ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.