|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.253. अध्यायः 253
Mahabharata - Adi Parva - Chapter Topics
इन्द्राभिवृष्टस्य जलस्यार्जुनेन निवारणम्॥ 1 ॥
पुत्रं निगीर्याकाशमुत्पतन्त्याः तक्षकभार्यायाः अर्जुनेन शिरश्छेदः॥ 2 ॥
इन्द्रेण स्वकृतवायुवर्षमोहितादर्जुनात्तक्षकपुत्रस्याश्वसेनस्य मोचनम्॥ 3 ॥
पावकान्मुमुक्षूणां नागादीनां मारणम्॥ 4 ॥
इन्द्रस्य कृष्णार्जुनाभ्यां युद्धम्॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-253-0x(1330)(10990)
तस्याथ वर्षतो वारि पाण्डवः प्रत्यवारयत्।
शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन्॥ 1-253-1(10991)
खाण्डवं च वनं सर्वं पाण्डवो बहुभिः शरैः।
प्राच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः॥ 1-253-2(10992)
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः।
संछाद्यमाने खे बाणैरस्यता सव्यसाचिना॥ 1-253-3(10993)
तक्षकस्तु न तत्रासीन्नागराजो महाबलः।
दह्यमाने वने तस्मिन्कुरुक्षेत्रं गतो हि सः॥ 1-253-4(10994)
अश्वसेनोऽभवत्तत्र तक्षकस्य सुतो बली।
स यत्नमकरोत्तीव्रं मोक्षार्थं जातवेदसः॥ 1-253-5(10995)
न शशाक स निर्गन्तुं निरुद्धोऽर्जुनपत्रिभिः।
मोक्षयामास तं माता निगीर्य भुजगात्मजा॥ 1-253-6(10996)
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते।
निगीर्य सोर्ध्वमक्रामत्सुतं नागी मुमुक्षया॥ 1-253-7(10997)
तस्याः शरेण तीक्ष्णेन पृथुधारेण पाण्डवः।
शिरश्चिच्छेद गच्छन्त्यास्तामपश्यच्छचीपतिः॥ 1-253-8(10998)
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम्।
मोहयामास तत्कालमश्वसेनस्त्वमुच्यत॥ 1-253-9(10999)
तां च मायां तदा दृष्टा घोरां नागेन वञ्चितः।
द्विधा त्रिधा च खगतान्प्राणिनः पाण्डवोच्छिनत्॥ 1-253-10(11000)
शशाप तं च संक्रुद्धो बीभत्सुर्जिह्मगामिनम्।
पावको वासुदेवश्चाप्यप्रतिष्ठो भविष्यसि॥ 1-253-11(11001)
ततो जिष्णुः सहस्राक्षं खं वितत्याशुगैः शरैः।
योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन्॥ 1-253-12(11002)
देवराजोऽपि तं दृष्ट्वा संरब्धं समरेऽर्जुनम्।
स्वमस्त्रमसृजत्तीव्रं छादयित्वाऽखिलं नभः॥ 1-253-13(11003)
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान्।
वियत्स्थो जनयन्मेघाञ्जलधारासमाकुलान्॥ 1-253-14(11004)
ततोऽशनिमुचो घोरांस्तडित्स्तनितनिःस्वनान्।
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम्॥ 1-253-15(11005)
वायव्यमभिमन्त्र्याथ प्रतिपत्तिविशारदः।
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम्॥ 1-253-16(11006)
जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः।
क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः॥ 1-253-17(11007)
सुखशीतानिलवहं प्रकृतिस्थार्कमण्डलम्।
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः॥ 1-253-18(11008)
सिच्यमानो वसौघैस्तैः प्राणिनां देहनिःसृतैः।
प्रजज्वालाथ सोऽर्चिष्मान्स्वनादैः पूरयञ्जगत्॥ 1-253-19(11009)
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः।
खमुत्पेतुर्महाराज सुपर्णाद्याः पतत्त्रिणः॥ 1-253-20(11010)
गरुत्मान्वज्रसदृशैः पक्षतुण्डनखैस्तथा।
प्रहर्तुकामो न्यपतदाकाशात्कृष्णपाण्डवौ॥ 1-253-21(11011)
तथैवोरगसङ्घाताः पाण्डवस्य समीपतः।
उत्सृजन्तो विषं घोरं निपेतुर्ज्वलिताननाः॥ 1-253-22(11012)
तांश्चकर्त शरैः पार्थः सरोषाग्निसमुक्षितैः।
विविशुश्चापि तं दीप्तं देहाभावाय पावकम्॥ 1-253-23(11013)
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः।
उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिनः॥ 1-253-24(11014)
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः।
कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः॥ 1-253-25(11015)
तेषामतिव्याहरतां शस्त्रवर्षं प्रमुञ्चताम्।
प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः॥ 1-253-26(11016)
कृष्णश्च सुमहातेजाश्चक्रेणारिविनाशनः।
दैत्यदानवसङ्घानां चकार कदनं महत्॥ 1-253-27(11017)
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तथा।
वेलामिव समासाद्य व्यतिष्ठन्नमितौजसः॥ 1-253-28(11018)
ततः शक्रोऽतिसक्रुद्धस्त्रिदशानां महेश्वरः।
पाण्डुरं गजमास्थाय तावुभौ समुपाद्रवत्॥ 1-253-29(11019)
वेगेनाशनिमादाय वज्रमस्त्रं च सोऽसृजत्।
हतावेताविति प्राह सुरानसुरसूदनः॥ 1-253-30(11020)
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम्।
जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तथा॥ 1-253-31(11021)
कालदण्डं यमो राजन् गदां चैव धनेश्वरः।
पाशांश्च तत्र वरुणो विचित्रां च तथाऽशनिम्॥ 1-253-32(11022)
स्कन्दः शक्तिं समादाय तस्थौ मेरुरिवाचलः।
ओषधीर्दीप्यमानाश्च जगृहातेऽस्विनावपि॥ 1-253-33(11023)
जगृहे च धनुर्धाता मुसलं तु जयस्तथा।
पर्वतं चापि जग्राह क्रूद्धस्त्वष्टा महाबलः॥ 1-253-34(11024)
अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम्।
प्रगृह्य परिघं घोरं विचचारार्यमा अपि॥ 1-253-35(11025)
मित्रश्च क्षुरपर्यन्तं चक्रमादाय तस्थिवान्।
पूषा भगश्च संक्रुद्धः सविता च विशांपते॥ 1-253-36(11026)
आत्तकार्मुकनिस्त्रिंशाः कृष्णापार्थौ प्रदुद्रुवुः।
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः॥ 1-253-37(11027)
विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा।
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ॥ 1-253-38(11028)
कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः।
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे॥ 1-253-39(11029)
युगान्तसमरूपाणि भूतसंमोहनानि च।
तथा दृष्ट्वा सुसंरब्धं शक्रं देवैः सहाच्युतौ॥ 1-253-40(11030)
अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ।
आगच्छतस्ततो देवानुभौ युद्धविशारदौ॥ 1-253-41(11031)
व्यताडयेतां संक्रुद्धौ शरैर्वज्रोपमैस्तदा।
असकृद्भग्नसंकल्पाः सुराश्च बहुशः कृताः॥ 1-253-42(11032)
भयाद्रणं परित्यज्य शख्रमेवाभिशिश्रियुः।
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च॥ 1-253-43(11033)
आश्चर्यमगमंस्तत्र मुनयो नभसि स्थिताः।
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे॥ 1-253-44(11034)
बभूव परमप्रीतो भूयश्चैतावयोधयत्।
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः॥ 1-253-45(11035)
भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः।
तच्छैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षितः॥ 1-253-46(11036)
विफलं क्रियमाणं तत्समवेक्ष्य शतक्रतुः।
भूयः संवर्धयामास तद्वर्षं पाकशासनः॥ 1-253-47(11037)
सोश्मवर्षं महावेगैरिषुभिः पाकशासनिः।
विलयं गमयामास हर्षयन्पितरं तथा॥ 1-253-48(11038)
तत उत्पाट्य पाणिभ्यां मन्दराच्छिखरं महत्।
सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम्॥ 1-253-49(11039)
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः।
शरैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा॥ 1-253-50(11040)
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ।
सार्कचन्द्रग्रहस्येव नभसः परिशीर्यतः॥ 1-253-51(11041)
तेनाभिपतता दावं शैलेन महता भृशम्।
शृङ्गेण निहतास्तत्र प्राणिनः खाण्डवालयाः॥ ॥ 1-253-52(11042)
इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि त्रिपञ्चाशदधिकद्विशततमोऽध्यायः॥ 253 ॥ ॥ समाप्तं च खाण्डवदाहपर्व ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|